________________
.. ( १३३ )
'उपसर्गादातः' ।५।३।११०। इति डो भविष्यतीति वाच्यं डविषये बालकादात्वं नेष्टमिति । अनन्तरसुत्रे दीङ इति सानुबन्धनिर्देशात् यड्लुपि नाकार: ।।७।।
भिग्मीगोऽखलचलि ।४।२८।
अनयोर्यपि खलअचअल्वर्जेऽक्ङिति च विषये आत्स्यात् । निमाय, निमाता । प्रमाय । प्रमाता । अखलचलीति किम् ? ईषद्विलयः, विलयः, विलयोऽस्ति ॥८॥ डुमिंग्ट प्रक्षेपणे मिनोति इति प्रथमो धातुः, मींग्श् हिंसायान् मीनाति इति द्वितीयो धातुरत्र सूत्रे गृहीतः । निमायेति-प्रक्षेप्येत्यर्थः । न च तृच्प्रत्ययविषये आत्त्वे 'तन्व्यधी० ।५।१६४ इति णे विसर्गान्तमपीदं रूपम् तहि निमातेति कथमिति वाच्यम् 'असरूपोप०' ।५।१६१। सूत्रादसरूपत्वात्तजपि । अत्र मिग्मीग इति भणनात् मिङ्च् हिंसायामिति देवादिकस्य मीण गताविति युजांदेश्चः ग्रहणं न भवति । ईषद् अनायासेन निमीयते-ईषन्निमयः, ईषन्निमयः, दुःखेन प्रमीयते-दुष्प्रमयः. 'दुःस्वीषतः० ।५।३।१३९। सूत्रण खल । मिनोति दुःखमिति मयः कर्तरि अच्प्रत्ययः । आ=सामस्त्येन मीनाति=हिनस्ति प्राणिनमिति=आमयः कर्तर्यच् । अल्प्रत्यये निमयः, प्रमयम् इत्युदाहृतम् । 'मिग्मीग्' इति गकारनिर्देशात् यङ्लुपि नात्त्वम् ।।८।।
-
लीलिनोर्वा ।४।२।६। अनयोर्यपि खल्अच्अल्वर्जे विति च विषये आद् वा स्यात् । बिलाय, विलीय, विलाता, विलेता। अखलचलोति किम् ? ईषद्विलयः विलयः, विलथोऽ स्ति ॥६॥ लीच् श्लेषणे, लींश् श्लेषणे इति द्वयोरपि समान रूपम् । णे दिलाय इत्यपि भवति ॥६॥