________________
( १३२ )
“वेः” ।२।३।५४। इति षत्वस्य विकल्पपक्षे उदाहृतम् ||४||
वापगुरो णमि | ४ | ३ |५ ॥
अपपूर्वस्य गुरेः सन्ध्यक्षरस्य णम्याद् वा स्यात् । अपगारमपगारम् । अपगोरमपगोरम् ॥५॥
गुरैति उद्यमे अभीक्ष्णमपगूय अपगुरणं पूर्वं वेति 'रणम् चाभीक्ष्ण्ये' ५।४।४८ । इति ख्णं द्वित्वं न । न च खणम्प्रत्ययेनैव आभीक्ष्ण्यस्योक्तत्वात् द्वित्वं न प्राप्नोतीति वाच्यं शब्दशक्तिस्वाभाव्यात् केवलरणम् आभोक्ष्ण्यं नद्योतयतीत्यतः द्वित्वापैक्षेति ॥५॥
दीड: सनि वा । ४ |२|६|
दोङः सन्याद् वा स्यात् दिदासते, दिदोषते ||६ म
दीड च शब्दे ||६||
यब क्ङिति |४| २|७|
दोङो यप्य क्ङिति च विषये आत्स्यात् । उपदाय, उपवाता, उदायो वर्तते ॥७॥
उपदायो वर्तते - विषयसप्तमी - निर्देशात्पूर्वमेवात्त्वे सति आकारान्तलक्षणो णो घत्र च भवति । यदा उपादानमिति भावविवक्षा तदा 'युवर्णवृ० | ५|३|२८| इत्यविषये आत्वे 'भावाकर्त्रीः | ५|३ | १८ | इति घञ यदा तूपादीयते इति कर्तृ विवक्षा तदापि णकविषये आत्त्वे 'तन्व्यधी० ५।१।६४ सूत्त्रात् णः । न च घञः कथमाकारान्तलक्षणत्वं सामान्येन तस्य विधानादिति वाच्य घञोऽप्याकारान्तलक्षणत्वं सामान्यमस्ति यतः आकाराभावे ईदन्तत्वादल् स्यात् । न च णं बाधित्वा उपसर्गाद् विशेषेण