________________
* अथ चतुर्थाध्यायस्य द्वितीयः पादः *
आत्सन्ध्यक्षरस्य ।४।२।१॥
धातोः सन्ध्यक्षरान्तस्यात् स्यात् । संव्याता, सुग्लः । धातोरित्येव-गोभ्याम् ॥१॥ उत्तरसूत्रण पृथग्योगाद् निनिमित्तोऽ यमादेशः । निनिर्मित्तत्वात् धातोः पूर्वमाकारः क्रियते, पश्चात् आकारान्तधातुमाश्रित्य आकारान्तलक्षणः प्रत्ययः तेन सुष्टु ग्लायतीति सुग्ल इत्यत्र 'उपसर्गादा० ।५।१५६॥ इति डप्रत्ययः सिद्धः । चेतेत्यादावथ भविष्यतीति चेन्मैवमत्र लाक्षणिकत्वान्न भवति ॥१॥
न शिति ।४।२।२। . सन्ध्यक्षरान्तस्य शिति विषयभूते आन्न स्यात् । संव्ययति ॥२॥ व्यग् तन्तुसन्ताने यजादिः ॥२॥
व्यस्थववि ।४।२।३। व्यः थवि णवि च विषये आन्न स्यात् ॥३॥ संविव्ययेत्यत्रापि न आत्त्वम् ॥३॥
स्फुरस्फुलोर्घनि ।४।२।४। अनयोः सन्ध्यक्षरस्य घनि आत्स्यात् । विस्फारः, विस्फालः ॥४॥