________________
( १२७ )
'शकितकिचतियतिशसिसहियजि० ।५।१।२६ सूत्रेण यप्रत्यय एव स्यात् । • प्रवचिग्रहणं शब्दसंज्ञार्थमुपसर्गनियमाथं वा । तेन प्रपूर्वस्यैव वचेः कत्वप्रतिषेधो भवति, नान्योपसर्गपूर्वस्य । अन्योपसर्गपूर्वे तु अधिवाक्यमिति भवति । प्रवाच्यो नाम पाठविशेषः, तदुपलक्षितग्रन्थोऽपि प्रवाच्य इत्युच्यते ॥११॥
वचोऽशब्दनाम्नि ।४।१।११६। अशब्दसंज्ञायां वचेय॑णि को न स्यात् । वाच्यम् । अशब्दनाम्नीति किम् ? वाक्यम् ॥११॥ बाक्यम्=विशिष्टः पदसमुदाय: ॥११॥
भुजन्युजं पाणिरोगे ।४।१।१२०॥ भुजेन्युब्जेश्च धनन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुभन्युब्जी निपात्येते । भुजः पाणिः, न्युजो रोगः ॥१२०॥ भुज्यतेऽनेनेति भुजः पाणिः । न्युब्जिताः शेरतेऽस्मिन्निति न्युन्जो नाम रोगविशेषः 'व्यञ्जनाद् घन ।५।३।१३२॥ इत्यधिकरणे पत्र , गत्वाभावः, भुजेर्गुणाभावश्च निपात्यते, पाणि रोगादन्यत्र तु भोगः, न्युद्ग इति भवति ॥१२०॥
वीरुन्न्यग्रोधौ ।४।१।१२० विपूर्वस्य रहेः क्विपि न्यवपूर्वस्य चाचि वीरुत् न्यग्रोधौ एतौ धान्तौ निपात्येते । वीरुत्, न्यग्रोधः ।१२०॥ विरोहतीति विरुत् अत्र निपातनाद्दीर्घः, न्यग्रोहतीति न्यग्रोधः ॥१२०॥
. . . ॐ अथ चतुर्थाध्याये प्रथमः पादः .