________________
( १२३ )
• स्याताम् । प्रश्नः। शब्दप्राशौ । पृष्टः । स्योमा । अक्षयूः ।
द्यूतः । १०८॥
च्छवः"इत्यत्र छकारस्य द्विः पाठात द्वित्वापन्नस्य छकारस्य द्वयस्य 'श' इत्यादेशः क्रियते । छ च च्छ चेति कृते ‘पदस्य ।।१।८६ संयोगान्तस्य लोपे 'निमित्ताभावे नैमितिकस्याप्यभावः' इत्यनेन चस्य छत्वे 'अघोषे प्रथमोऽशिट:'।१।३।५०। इति पूर्वस्य छस्य चत्वे च च्छ इति साध्यते तदा एकछकारस्यापि वाछु इच्छायाम् इत्यस्य वान् वांशी वांशः इति सिद्धम् । यदा पूर्व द्वि: च्छकारः द्वितीयस्तु लघुः ततः च्छ छच चेति कृते “पदस्य ।२।१८६। इति लवुछकारस्य लुक तदा निमित्ताभावे नैमित्तकस्याप्यभावः' इत्यस्य नाश्रयणम् । शब्दप्राशौ--शब्दं पृच्छतीति 'दिद्यु इदृ० ।५।२।८३। इत्यनेन क्विप् दीर्घश्च, 'अनुनासिके० ।४।१।१०८। इत्यनेन च्छस्य 'श्' 'यजसजमज०।२१।१।८७। इत्यनेन शकारस्य ष'धटस्तृतीयः ।२।१।७६। इति षस्य ड् विरामे वा' ।१।३।५१॥ इति ट् । पृट:-छकारस्य श् ‘ग्रहवश्च भ्रस्ज०।४।१।८४। इति यवत् । स्योमा-सिव सीव्यतीति स्योमा, 'मन्वनक्वनिप० ।५।१।१४७। इति मन्प्रत्ययः नित्यत्वात्पूर्वम् 'अनुनासिके च्छवः.।४।१।१०८।इत्यनेन वकारस्य ऊट, न गुणः । ऊटि कृतेऽन्तरङ्गत्वात् पूर्वं यत्वम् तत ऊकारस्य गुण: ओ । अक्षयः-अझर्दीव्यतीति क्विप वस्य
ऊट । धातोरेव भावात् दिवेरौणादिक-डिवप्रत्ययान्तस्य धुभ्यां धुभिः .. इति । यदा तु दिवेः क्विा तदा धातुत्वात् छू भ्यां, द्यु भिरिति ॥१०॥
• मव्यविधिवित्वरित्वरेरुपान्तोन ।४।४।१०६।
एषामनुनासिकादौ क्वौ धुडादौ च प्रत्यये उपान्येन सहोट् स्यात् । मोमा । मूः । मूतिः। ओमा । ओं। ऊः । ऊतिः। श्रोमा । श्रूः । भूतिः । जूर्मा । जूः । जूत्तिः । तूर्मा । तूः । तूर्णः ॥१०॥ शकारस्य स्थानी छकारोऽत्र सूत्रे न सम्भवतीति 'ऊट्' एवानुवर्तते न श् । ऊडेवानुवर्तते । मोमा-मव बन्धने इति ‘मन्वन्' ।५।३।१४७। इति मन,