________________
( १२२ )
तने डादौ सनि दोघों वा स्यात् । तितां ति तितंसति । धुटीत्येव - तितनिषति ॥ १०५ ॥
" इवृधस्य |४ |४| ४७॥ इत्यनेन इट् ॥ १०५ ॥
क्रमः क्विं वा । ४ । १।१०६।
क्रमो धुडादौ क्वि दीर्घो वा स्यात् क्रान्त्वा, कन्त्वा । घुटीत्येव - क्रमित्वा ॥ १०५ ॥
ऊदितो वा | ४|४|१२| इति वेट् । प्रकम्येत्यत्र त्वन्तरङ्गमपि दीर्घं बाधित्वा प्रागेव यप् 'अन्तरङ्गानपि विधीन् यबादेशो बाधते इति न्यायात् ॥ १०६ ॥
अहन्पञ्चमस्य क्विक्ङति ॥ ४ । १।१०७ |
हन्वर्जस्य पञ्चमान्तस्य क्वौ धुडादौ च क्ङिति दीर्घः स्यात् । प्रशान् : शान्तः । शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहन्निति किम् ? बृहणि । धुटीत्येव यम्यते ॥ १०७॥
प्रशान - अत्र 'मो नो म्वोश्च' | २|१|६७ | इत्यन्तस्य नः । नादेशस्य परेऽसत्त्वान्नलोपाभावः । हन्वर्जनाद उपदेशावस्थायां पञ्चमो गृह्यते तेन सुगणित्यत्र दीर्घो न भयति । शंशान्तः इति यङ्लुपि वर्तमानातस्प्रत्ययः । बृहणि- संज्ञा 'पूर्वपदस्थ | ० | २|४| ६४ | सूत्रेण, असंज्ञायां तु ', कवर्गे.. २३७६ इति णत्वम् किम् । कश्चित्त्वाचारक्वावपि दीर्घत्वमिच्छन्ति शमिवाचरति शामति, किम् कीमति इदम् इदामति । स्वमते तु धातुवाभावान्न दीर्घः ॥१०७॥
अनुनासिके च्छ्वः शूट् |४|१|१०८ ।
अनुनासिकादौ क्कौ धुडादौ च धातोः छ्वोर्यथासङ्ख्यं श् कटौ