________________
( ११६ )
'प्रात्तश्च मो वा ।४।१।६६।
प्रात्केवलात्परस्य स्त्यः क्तयोः परयोः स्तीः स्यात् । प्रसंस्तोतः। प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यान : ॥६६॥ स्त्य सङ्घाते च इति भ्वादिधातुः ॥६६॥
श्यः शीवमतिस्पर्शे नश्चास्पर्शे ।४।१६७। मूर्तिः काठिन्यं द्रवमूर्तिस्पर्शार्थस्य श्यः क्तयोः परयोः शोः स्यात् । तद्योगे च क्तयोस्तोऽस्पर्शविषये नश्च । शीनम् । शीनवद् घृतम् । शीतं वर्तते । शीतो वायुः । ६७॥ शोनं, शीनवन. घृतम्-द्रवावस्थायाः काठिन्यं गतमिव्यर्थः । गुणमात्रे तद्वति चार्थे स्पर्शविषयो भवति। शीतं वर्तते इत्यत्र शीतस्पर्शः मुख्यभावेन, शीतोवायु-रित्यत्र तु गौणभावेन वर्तते ॥१७॥
प्रतेः ।४।१६॥
प्रतेः परस्य श्यः क्तयोः परयोः शीः स्यात्तद्योगे क्तयोस्तो न् च । प्रतिशीनः, प्रतिशोनवान् ॥९॥
प्रतिपूर्वोऽयं रोगे वर्ततेइति पूर्वेणाप्राप्तौ वचनम् । रोगे स्पर्शस्या सम्भवात् ‘अस्पर्श' इति नोक्तम् ।
वाभ्यवाभ्याम् ।४।१। आभ्यां परस्य श्यः क्तयोः परयोः शीर्वा स्यात्तद्योगे च क्तयोस्तोऽस्पर्श नश्च । अमिशीनः, अभिशीनवान् । अभिश्यानः, अभिन