SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ( ११७ ) श्व सस्वरान्तस्था ऊपरे सन्परे णौ विषये य्वृद् वा स्यात् । अशूशवत्, अशिश्वयत् । शुशावयिषति, शिश्वाययिषति ॥८६॥ णौ ङसनि ।४।१।८८॥ श्वेर्वा ।४।१।८६॥ इति सूत्रद्वये णावित्यत्र विषयसप्तमीयम्, विषयसप्तमीबलादन्तरङ्गमपि वृद्धयादिकं वृता बाध्यते पूर्व वृत् प्रवर्तते पश्चाद् वृद्धयावी इनि अशूशवद् इत्यादौ पूर्वं वृत्, ततो वृद्धिः, आन्, “उपान्त्यस्या० ।४।२।६५। इति उपान्त्यह्रस्वः, ततौ णौ कृतस्य वृद्धयावादेशस्य स्थानित्वम्, न तु वृतः स्थानित्वम् इति 'शु' इति द्वित्वम् । 'लघोर्दीघोऽ० ।४।१। ६४। इति दीर्घत्वम् एवं शुशावयिषतीत्यत्र सन् ॥८॥ वा परोक्षायङि ।४।१०। श्वः सस्वरान्तस्थापरोक्षायडोवृद् वा स्यात् । शुशाल, शिश्वाय । शोशूयते, शश्वीयते ॥१०॥ शुशाव-'णिद् वाऽन्त्यो णव् ।४।३।८५॥ इति वा णित् “इन्ध्यसंयोगात्" ४।३।२१। इत्यवित्परोक्षायाः कित्त्वात् 'यजादिवचे: किति ।४।१७९। इत्यनेन य्वृति प्राप्ते विति परोक्षायां यङि च परेऽप्राप्ते 'वा परोक्षायडि ।४।१६।। इति विकल्पः कृतः ॥९॥ . प्यायः पीः ।४।१६१॥ प्यायः परोक्षायङोः पीः स्यात् । आपिप्ये । आपेपीतः ॥११॥ ओप्यायै वृद्धौ इति प्याय । पी-आदेशानन्तरं द्वित्वे कृते 'योऽनेकस्वरस्य ।२।१॥५६॥ इति यत्वम् दीर्घनिर्देशो यङ्लुबर्थः, यदि हि साक्षाद् यङ् तदा 'तु “दीर्घश्चि०।४।३।१०८॥ इति दीर्घः सिद्ध एव । आपेपीतः–क्तान्तं रूपम्, वर्तमानातस्प्रत्यये वा ॥१॥ क्तयोरनुपसर्गस्य ।४।१।६२॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy