SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ( १११ ) भूस्वपोरदुतौ ।४।१।७०। भूस्वपोः परोक्षायां वित्ने पूर्वस्य यथासंख्यमदुतौ स्याताम् । बभूव । सुष्वाप ॥७०॥ बभूवेत्यत्र प्रथमं वृद्धिः, ततः ‘भुवो वः परोक्षाद्यतन्योः' ।४।२।१३। इत्यनेन उः। केचित्तु कर्तर्येव भुवोऽकारमिच्छन्ति, न भावकर्मणोः तेन बुभूवे चैत्रेण इत्येव भवति ॥७०॥ ज्यागोव्यधिव्यचिव्यथेरिः ।४।१।७१। एषां परोक्षायां वित्ो पूर्वस्य, इः स्यात् । जिज्यौ । संविव्याय । विव्याध । विव्याच । विव्यथे ॥७१॥ ज्योश् वयोहानो जिज्यौ । व्यग् संवरणे-संविव्याय 'व्यस्थव् णवि ।४।२।३। सूत्रेण आत्त्वनिषेधः । यजादिवश्वचः० ।४।१।७२। इति य्वृद्बाधनार्थमिकारस्यापि इ: क्रियते ॥७१।। यजादिवश्वचः सस्वरान्तस्था वृत् ।४।१।७२। यजादेश्विचोश्च परोक्षायां वित्ने पूर्नस्य सस्वरान्तस्था • इउऋरूपा प्रत्यासत्त्या स्यात्। इयाज । उवाय । उवाश । उवाच ॥७२॥ यजी, वेंग, व्यंग, बग, दुवपीं, वहीं, टवोश्वि, वद, वसं एते यजादयः परमत्र यजादिसूत्रे धातुषट्कं ज्ञातव्यम् ।व्येधातोः 'ज्याव्येव्यधि०।४।१।१७। इत्यनेन इकार: उक्त, ह्वश्विधात्वोः पूर्वस्याभ्यासे अन्तस्थाया अभावादेव वृत् न प्राप्नोति । वचिति वश्साहचर्यात् वचंक् ब्रूगादेशो वा आदादिको गृह्यते न तु यौजादिकः । प्रत्यासत्या-यकारान्तस्थाया इकारः, वकारान्तास्थाने उकार:, रकारान्तस्थास्थाने ऋकारः भवति ॥७२॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy