________________
( ११० )
विधि: । ननु “ई वा गण" इति सूत्र्यतां गणेरदन्तत्वेन समानलोपित्वादेव पक्षेऽजगणदिति भविष्यति ? सत्यं, चुरादिभ्यो णिज् अनित्यः, णिच्चसन्नियोगे एव एषामदन्तता, अतस्तदभावे तदभावादजगणदिति सिध्येत किन्त्वजीगणदित्येव । अचीकथः इति प्रयोगदर्शनादन्येषामपि ईत्वमिच्छत्येके ॥६७॥
अस्यादेराः परोक्षायाम् ।४।।६८।
अस्यां दिवत्वे पूर्वस्यादेरत आः स्यात् । आदुः । आरतुः । आस्येति किम् । ईयुः । आदेरिति किम् । पपाच ॥६॥ 'लुगस्यादेत्यपदे' ।२।१।११३। इत्यस्यापवादोऽयम् । परोक्षायामित्युत्तरार्थमिह तु परोक्षाया अन्यस्मिन् यङादौ द्वित्वे सति. आदावकारस्यासम्भवात् । ईयुः० इंण्क् गतो, परोक्षाया उम्, ततो द्वित्वम्, 'इणः ।२।११५१। इत्यनेनेयादेशः ।।६८॥
अनातो नश्चान्त ऋदाद्यशौ संयोगस्य।४।१।६६। ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां दिवत्वे पूर्वस्यादेरास्थानादन्यस्यास्य, आः स्यात्, कृतातो नोऽन्तश्च । आन्धुः । अनाशे। आनञ्ज । ऋदादीति किम् । आर। अनात इति किम् । आञ्छ॥६६॥
न विद्यते आत् आकारः स्थानितयाऽस्याकारस्य सः अनात् तस्य । अशावित्यौकार अश्नातेनिवृत्त्यर्थः । आर-ऋक् गतौ' 'ऋप्रापणे च' णव, द्वित्वम् 'ऋतोऽ त्' ।४।१।३८। इत्यकार: ‘अस्यादेराः परोक्षायाम्।४।१।६८) इत्याकारस्ततो 'नामिनोऽ कलिहले: ।४।३।५१॥ इति वृद्धिः । 'आद्यन्तवदेकस्मिन' इति न्यायादपि न, यतो यदाऽन्त्यव्यपदेशस्तदापि ऋदादित्वम्, . यदाऽऽदिव्यपदेशस्तदा दन्तत्वम् ततः ऋत् आदिरेवेत्यवधारणेनैवास्य निराशः आछ आयामे-आञ्छ ॥६६।।