SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( १०८ ) कमिच्छति क्यन् स्वायकीयितुमिच्छति सन् ततो 'णिस्तो० ।२।३।३७ इति षत्वम् । सिष्वापयिषति-अत्र न स्वणिः घत्रा व्यवधानात् । स्वपधातुः, स्वपनं-स्वापः, स्वापं करोतीति 'णिज्बहुलं नाम्नः कृमादिषु ।३।४।४२। इति णिच स्वापयितुमिच्छतीति सन् 'अन्यस्य' ४१११८ इत्यनेन 'स्वा' इति द्वित्वम् । अत्र न स्वपेणिग्, कित्तु स्वापतो णिः । सोषोययिषति-अत्र स्वप्धातुः, भृशं पुनः पुनर्वा स्वपितीति यङ् ‘स्वपेर्यङ्-डेच' ।४।१।८०। इति य्वत्, सुप् 'सन्यङश्च' ।४।१।३ इत्यनेन 'सुप्' इति द्वित्वम् ‘आगुणा० ।४।१।४८। इति द्वित्वे पूर्वस्य गुणः ‘बहुलं' लुप् ।३।४।४। इति यङ्लोपः । सोषुपन्तं प्रयुक्त इति णिग् लघोरूपान्त्यस्य ।४।३।४ इति गुणः, सोषोप सोषोपयितुमिच्छतीति सन् 'णिस्तोरे० २।३।३७। इति सस्य षत्वम् अत्र यङि सति द्वित्वम् ततो यङ्लुबन्तात् णिग् ॥६२।। असमानलोपे सन्वल्लघुनि ऊँ ।३।१।६३। नविद्यते समानस्य लोपो यस्मिस्तस्मिन ङपरे णौ दिवत्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य स्यात् । अचीकरत् । अजीजवत् । अशिश्रवत् । लघुनीति किम् । अततक्षत् । णावित्येव । अचकमत् । असमानलोप इति किम् । अचकथत् ॥६३॥ , सनीव कार्यं स्यात् यथा सनि परेऽभ्यासेऽकारस्य ‘सन्यस्य' ।४।१।५६ इत्यनेन इकारो भवति तथा 'असमानलोपे० ।४।१।६३। इत्यनेनाप्यभ्यासे इकारः भवतीत्यर्थः । अचीकर-णिश्रिद्रु०।३।४।५८। लघोर्दी?०।४।१।६४ इति दीर्घः । अजीजवत्-'श्रुस्र द्र०' ।४।१।११। इत्युक्तमिहापि । णाविति जात्यश्रयणात् वादितवन्तं प्रयोजितवान् अवीवदत् वीणां परिवादकेन, अपीपठन्माणबकमुपाध्यायेन । अत्रे णे: समानस्य लोपेऽपि भवति ।।६३।। लघोर्दीर्घोऽस्वरादेः।४।१।६।। अस्वरादेरसमानलोपे ऊपरे णौ द्वित्वे पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः स्यात् । अचीकरत् । लघोरिति किम् ।
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy