________________
- ( १०७ )
लावयितुमिच्छति इति सन् ‘णौ यत्कृतं यत्सर्वं स्थानिवद्' इति न्यायात् । जु, बु, रु, लु, एतेषां द्विवचनम् यतः “ओन्ति०" ।४।।६० इत्यनेनाभ्यासे इकारः । पिपावयिषते, मिमावयिषते इति प्रयोगद्वयं पवर्गे इत्यस्य । नन् ण्यन्तानां वृद्धयवादेशयोः कृतयोः द्वित्वे सति पूर्वस्योकारान्तता न सम्भवति । तत्र 'सन्यस्य' ॥४।११५६। इत्यनेनैव सिद्धे किं गुरूणां सूत्रेण ? एतावत्तु विधेयप् 'ओः पयेऽवणे' इति । पिपविषति, पियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यातू । सत्यं णौ यत्कृतं तत्सर्व स्थानिवद् भवति "इति न्यायज्ञापनार्थं वचनम्, तेन पुरस्फारयिषति, चुक्षावयिषतीत्याद्यपि सिद्धम् ॥६०॥
श्रु-स्र-द्र गुप्लु च्योर्वा ।४।१।६१॥ एषां सनि द्वित्वे पूर्वस्योतोऽवर्णन्तायामन्तस्थायां परस्यामिर्वा स्यात् । शिश्रावयिषति शुश्रावयिषति.। सिस्त्रावयिषति । सुत्रावयिषति । द्विद्रावयिषति । दुद्रावयिषति । प्रिप्रावयिषति । पुप्रावयिषति । पिप्लावयिषति । पुप्लावनिषति । चु । च्यवयिषति
॥६१॥
वचनादेकेन वर्णेनान्तस्थायाः व्यवधानमाश्रीयते । ततः इत्वं सिध्यति । शुश्रावयिषतीत्यादौ णौ वृद्धयावोः कृतयोः ‘णौ यत्कृतं कायं तत्सर्वं स्थानिवद्' इति न्यायेन श्र द्र स , द्र, प्र, प्लु, च्यु, इति द्विवर्चनम् ॥६१॥
स्वपो णावुः ।४।१।६२॥ स्वपेणौं सति द्वित्वे पूर्वस्योत्स्यात् । सुष्वापयिषति । णाविति किम् ? सिष्वापकीयिषति । स्वयो णाविति किम् ? स्वापं चिकीर्षति । सिष्वापयिषति । स्वपो णौ दिवत्व इति किम् ? सोषोपयिषति ।६२॥ सनीति निवत्तं कार्यान्तरविधानात् । सिष्वापकीयिषति--णकः, स्वाप