SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) एषां शिति दिवत्वे पूर्वस्य इः स्यात् । पिपर्ति, इर्यात, बिर्भात, मिमीते । जिहोते । हाङिति किम् ? जहाति । शितीत्येव - पपार ।। ५८ ।। पृऋमा हाङ् इत्येतेषां शिति द्वित्वे सति पूर्वस्येकारो भवति । केचित्तु पृ. पालनपूरणयोः इति जुहोत्यादौ दीर्घत्वं पठन्ति तन्मतसंग्रहार्थं पृच ऋश्च इति विग्रहः, अत एव च बहुवचनम् । शिति इति भणनात् पृतु इत्यस्य व्युदासः । इयति-अत्रः पूर्वस्येकारे कृते 'पूर्वस्यास्वे स्वरे ० ४|१|३७| इत्यनेन इय्, मां शब्दयोः, हाङित्यत्र ङकारकरणात् ओहां त्यागे इत्यस्य न ग्रहणम् ॥ ५८ ॥ सन्यस्य |४|१|५| द्वित्वे पूर्वस्यातः सनि परे इः स्यातः । पिपक्षति । अस्येति किम् । पापचिषते ॥५६॥ 'चजः कगम् | २|१|८६ | 'नाम्यन्तस्था० | २ | ३|१५ इति सूत्रप्रवृत्तिः पिपक्षति इत्यत्र ॥ ५६ ॥ ओजन्तस्यापवर्गेऽवर्ण |४|१|६० | दिवत्वे पूर्वस्योतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इः स्यात् । जिजविषति । जिजावयिषति । यियविषति । यियावयिषति । रिरावयिषति । पिपविषते । पिपावयिषते । मिमावयिषते । जान्तस्थापवर्गे इति किम् ? जुहावयिषति । अवर्ण इति किम् ? ब्रभूषति ॥ ६० ॥ जिजावयिषति - जु सौत्रो धातुः, जवन्तं प्रयुङ्क्त े णिग् 'नामिनोऽकलिहलेः | ४ | ३ | ५१ इति वृद्धि : औ: 'औदोसोडवाव् | १|२| २४| इत्यात् । युक् मिश्रणे, टुक्ष रुकुक शब्दे, लग्श छेदने । जात्रयितुं यावयितु रात्रयितु,
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy