SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) जपजभदहदशमञ्जपशः ।४।१।५२॥ एषां यङन्तानां वित्ने पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते । जञ्जभ्यते । दन्दह्यते । दन्दश्यते । बम्भज्यते। पम्पश्यते । ॥५२॥ पम्पश्यते-पशिति सौत्रो धातुः दशिति लुप्तनकारनिर्देशाद् यङो लुप्यपि दशेनलोपो भवति । 'गृ लुप० ।।४।१२। इत्यत्रापि ज्ञापितं, परं 'द्विबंद्धं सुबद्धं ०" भवतीति न्यायेन अत्रापि ज्ञापितम्। जंजपा पि, जंजभोति दंदहीति, दंदशीति, बम्भजोति, पंपशीति यङ्लुपि एतानि रूपाणि भवन्ति । 'आगमशासनमनित्यमिति न्यायात् जंजभीतीत्यत्र 'जभः स्वरे ।४।४।१००। इति नागमाभावः ॥५२॥ चरफलाम् ।४।१।५३॥ एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । बञ्चूर्यते । पम्फुल्यते ॥५३॥ बहुवचनं फलनिष्पती, त्रिफला विशरणे इति द्वयोः परिग्रहार्थम् । अन्यथा 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति. न्यायात् त्रिफला इत्यरय ग्रहणं न स्यात् ॥५३॥ ति चोपान्त्यातोऽनोदुः ।४।१।५४। यङन्तानां चरफलां तादौ च प्रत्यये उपान्त्यस्यात उः स्यान्नच तस्यौत् । चञ्चूर्यते । पम्फुल्यते। चूत्तिः । प्रफुल्लिः । अत किम् । बञ्चार्यते । पम्फाल्यते । अनोदिति विम् । चंचूत्तिः । पम्फुल्लिः ॥५४॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy