________________
( १०३ )
'न हाको लुपि ।४।१॥४६॥ हाको द्वित्वे पूर्वस्य यङो लुप्या न स्यात् । जहेति ॥४६॥ "ओहांक् त्यागे” इत्यस्य यङ्लोपानन्तरं “यङ्-तुरुस्तोर्बहुलम् ।४।३।६४। इत्यनेन धातोः परत ईति ‘अवर्णस्ये'०।१।२।६। इत्यनेन एत्वे च जहेति ॥४६॥
वञ्चत्र सध्वंस भै सकसपतपदस्कन्दोऽन्तो नीः । ।४।११५०
एषां यङन्तानां दिवत्वे पूर्वस्य नीरन्तः। वनीवच्यते। सनीस्त्रस्यते । दनीध्वस्यते । बनीघ्रस्यते । चनीकस्यते। पनीपत्यते । पनीपद्यते । चनोस्क द्यते ॥५०॥ धु तादिध्वंससाहर्चात् स्रसूङ अवस्र सने इत्यस्यैव धुतादिध्वंसो ग्रहः, स्रस् प्रमादे इत्यस्य तु सास्रस्यते इति भवति । म्रशिरपि भ्रशूङ् अवस्रसने इति भ्वादिरेव गृह्याते भ्वादिध्वंससाहचर्यात् । भ्रशूच् इत्यस्य तु बाभ्रश्यते इत्येव ॥५०॥
मुरतोऽनुनासिकस्य ।४।११५१॥
आत्परो योऽनुनासिकस्तदन्तस्य यङन्तस्य दिवत्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् । तेतिम्यते । अनुनासिकस्येति किम् । पापच्यते ॥५१॥ ये त्वनुनासिकान्तस्य धातोद्वित्वे सति पूर्वस्याऽत इति विशेषणं मन्यन्ते तन्मते भामि क्रोधे इत्यस्य बंभाम्यते । तन्मतसंग्रहायातः इति षष्ठी व्याख्येया । स्वमते तु आत्परस्यानुनासिकस्याभावात् बाभाम्यते इति । ॥५१॥