________________
( १०२ )
डुङ शब्दे भ्वादिधातुः ङित्वादात्मनेपदम् ॥४६॥
न कर्तर्यङः |४|१|४७ ॥
यङन्तस्य कवित्वे सति पूर्वस्य कश्चो न स्यात् । कोकूयते खरः । कवतेरिति किम् ? कोतिकुवत्योर्मा भूत् । चोकूयते । यङः इति किम् ? कुवे ॥४७॥
कवतेरिति शनिर्देशात् कुशब्दे भ्वादिरेव गृह्यते । कौतिकुवत्यो:कु'क् शब्दे अदादिः, कुङ् शब्दे तुदादिः अनयोः पूर्वस्य चकारो भवत्येव । चोकूयते - कौतिकुवत्योः प्रयोगोऽयम् । कवतिरव्यक्त, शब्दे, कुवतिरार्त्तस्वरे, कौतिः शब्दमात्रे । एषां पाठे शब्दमात्रार्थत्वेऽपि गत्यर्थत्वाविशेषे धावतिगच्छत्यादीनामिवार्थ भेदः । यङ्लुपिच निषेधो न भवति, चोकवीति
॥४७॥
आगुणावन्यादेः । ४।१।४८ ।
यङन्तस्य वत्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । पापच्यते । लोलूयते । अन्यादेरिति किम् ? वनीवच्यते । जञ्जप्यते । यम्यते ॥ ४८ ॥
एतावाकारगुणौ न यङ्निमित्ताविति पापचीतीत्यादौ यङ्लुप्यपि भवतः । अन्यादेः - न भविष्यन्ति न्यादयो यस्य सोऽन्यादिस्तस्य । न्यादीनामन्तस्य तु विधानसामर्थ्यान्न भवति । ननु अत्रापवादत्वान्न्यादय एव बाधकाभविष्यन्ति किं न्यादिवर्जनेनेति चेत्सत्यम् द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधक इति ख्यापनार्थम् तेन 'अचीकरद्' इत्यत्र सन्वावस्य 'लघोर्दीघोऽस्वराः | ४|१|६४ इति सूत्रं न बाधते, अन्यथा परत्वादपत्रादत्वाच्च पूर्व लघोर्दीर्घो |४| १६४ इति प्रवर्तेत, ततः 'अचाकरत्' इति प्रयोगः स्यात् 'अचीकरद्' इति इष्टश्च ॥ ४८ ॥