________________
। १०० )
चकारेत्यत्र 'कङश्चत्र '।४।१॥४६॥ इति चत्वम् ॥३८॥
ह्रस्वः ।४।१।३। वित्वे सति पूर्वस्य ह्रस्वः स्यात् पपौ ॥३६॥ पपो–'आतो णव औः ।।२।२०। इति णव औरादेशः ॥३९॥
गहोर्जः ।४।११४०॥ द्वित्वे सति पूर्वयोर्गहोर्जः स्यात् । जगाम । जहास । ॥४०॥ जगामेत्यत-णवो णित्त्वात् वृद्धिः ॥४०॥
धु तेरिः।४।११४१॥
द्युतेद्वित्वे सति पूर्वस्य इः स्यात् । दिद्युते ॥४१॥ 'दिद्य ते' इत्यत्र यकारस्य 'व्यञ्जनस्यानादेर्लुक् ।४।१।४४ इति लुक् ॥४१॥
द्वितीयतुर्ययोः पूर्वी।४।१॥४॥ द्वित्वे पूर्वयोर्दिवतीयतर्ययोर्गथासङ्खय पूर्वावाद्यतृतीयौ स्याताम चखान । जझाम ॥४२॥ द्वितीयतुर्ययोरिति कथनाभावे पपाचेत्यत्रापि सामीप्यात् पूर्वो नकारः स्यात् ॥४२॥