________________
निषेधात् त्रपेरनेकव्यञ्जनमध्यगतत्वात् फलभजोरादेशादित्वाच्च पूर्वसूत्रेण न प्राप्नोतीति वचनम् । बहुवचनं फल त्रिफला (फल निष्पत्ती, त्रिफला विशरणे) इत्यु-भययोरपि ग्रहणार्थमन्यथा 'निरनुबन्धग्रहणे न०' इति न्यायेन 'त्रिफला इत्यस्य ग्रहणं न स्यात् । तेरुः-प्राक् तु स्वरे इति भणनात्पूर्व द्वित्वे 'स्कृ.च्छु तोऽ कि' ।४।३८ इति गुणे ऽस्य एत्वे, न च द्विरिति वचनात्कृतमपि द्वित्वं निवर्तते, एवं ज धातोरपि ज्ञेयम् ॥२५॥
ज भसवमत्रसफणस्यमस्वनराजभाजभासभ्लासो वा ।४।१।२६। एषां स्वरस्यावित्परोक्षासेट्यवोरेर्वा स्यान्न च दिवः । जेरुः, जजरुः । जेरिथ, जजरिथ, । भ्रमः, बभ्रमः । भ्रमिथ, बभ्रमिथ । वेनुः, ववमुः। वेमिथ, ववमिथ । त्रेसुः, तत्रसुः । सिथ, तत्रसिथ । फेणुः, पफणुः । फेणियः, पफणिथ। स्येमुः, सस्यमुः। स्येमिथ, सस्यमिथ । स्वेनुः। सस्बनुः । स्वेनिथ, सस्वनिथ । रेजुः रराजुः । रेजिथ, रराजिथ । जे, बभ्राजे । ध्र से, बभ्रासे। भलेंस, बन्लासे ॥२६॥ जेत:-"स्कृच्छ तोऽ कि परोक्षायाम् ।४।३।८। सूत्रेणात्र गुणः । गजसहचरितभ्राजेरैवं ग्रहणम् ॥२६॥
वा श्रन्थग्रन्थो नलुक् च ।४।१।२७। अनयोः स्वरस्थावित्परोक्षासेट्थवोरेर्वा नद्योगे च नोलुक् न च दिवः । श्रेथु, शश्रन्थः । श्रेथिथ, शश्रन्थिय । ग्रंथ, जग्रन्थु । ग्रेथिथ, जग्रन्थिथं ॥२७॥ 'श्रन्थग्रन्थ' इत्युक्तत्वात् ( श्रन्थश् मोचनप्रतिहषयोः, ग्रन्थश् संदर्भे)