________________
( ६७ )
.श्रन्थग्रन्थधातू क्रयादिको ग्राह्यो । 'श्रथुङ शैथिल्ये, ग्रथूङ् कौटिल्ये' इत्यनयोर्न ग्रहणम् ‘उदितः स्वरान्नोन्तः ।४।४।९८। इत्यनेननोऽन्ते लाक्षणिकत्वात् न एत्वम् । प्रकृतिप्रत्यययोर्वचनभेदान्न यथासंख्यम् ॥२७॥
--
दम्भः ।४।१।२८॥
दम्भः स्वरस्यावित्परोक्षायामः स्यात् न च द्विस्तद्योगे च नो लुक् । देभुः ॥२८॥ णवो वित्त्वात् ददम्भ इत्यत्र न भवति ॥२८॥
थेवा ।४।१।२६॥ दम्भः स्वरस्य थव्येर्वा स्यात्तद्योमे च नो लुक, न च हिः । देझिय, ददम्भिथ ॥२६॥ वर्तमानाथप्रत्यये नुना व्यवधानात्प्राप्त्यभाव इति परोक्षाया एव थप्रत्ययग्रहणम् ॥२९॥
-
न शसददिवादिगुणिनः ।४।१।३०। शसिदद्योर्वादीनां गुणिनां च स्वरस्यन स्यात् । विशशसुः । विशशसिथ दददे । ववले । विशशरुः । विशशरिथ ॥३०॥ शसू हिंसायाम् ददि दाने, वलि संवरणे, श.श् हिंसायाम् 'स्कृच्छ्र तोऽकि परोक्षायाम् ।४।३।८। इति गुणः ॥३१॥
हौ दः ।४।१।३१। दासंज्ञस्य हौ परे एः स्यान्न च द्विः । देहि । धेहि ॥३१॥