________________
( ६५ )
आवित्परोक्षासेट्यवोरेः ।४।१॥३॥ राहिँसार्थस्याविति परोक्षायां थवि च प्रेटि स्वरस्य एः स्यान्न च दिवः । रेधुः । रेधिथ । अविदिति किम् ? अपरराध । वध इत्येव--आरराधतुः ॥२३॥ रेधिथ-'स्क्रसृवभृस्तु० ।४।४।८१॥ इत्यनेन इट् ।
अनादेशादेकव्यञ्जनमध्येऽतः ।४।१।२४। अवित्परोक्षासेट्थवोः परयोर्योऽ नादेशादिस्तत्सम्बन्धिनः स्वरस्यातोऽसहायव्यञ्जनयोर्मध्यगतस्यैः स्यान्न च दिवः । पेचुः । पेचिथ । नेमुः, नेमिथ । अनादेशादेररिति किम् ? बभणतुः । एकव्यञ्जनमध्य इति किम् ? ततक्षिथ। अत इति किम् ? दिदिवतुः । सेट्थवीत्येव-पपक्थ ॥२४॥ यस्यधातौः परोक्षादिनिमित्तमाश्रित्याभ्यासे वर्णविकारः क्रियते स आदेशादिर्धातुरुच्यते । यथा बभणतुः । यस्य तु परोक्षादिनिमित्तेऽपि आदेशो न स्यात् स अनादेशादिर्धातुः । यथा पेचु:, ने पुः । एके असहाये च ते व्यञ्जने च इति एकव्यञ्जने, नयोर्मध्यम् एकव्यञ्जनमध्यम्, तस्मिन्-केवलयोः, न संयोगाक्षरयोरिन्यर्थः । नेमुः-अत्र ‘णम्' धातोः नत्वविधिः अनिमित्तः, न तु परोक्षाथविनमित्तकः।
तृत्रपफलभजाम् ।४।१।२५
एषामवित्परोक्षासेट्थवोः स्वरस्यैः स्यान्न च दिवः । तेरुः । तेरिथ । त्रेपे । फेलुः । फेलिथ । भेजुः । भेजिथ ॥२५॥ तरतेरतो गुणरूपत्वात् 'न शस-दद० ।४।१।३०। इत्येन गुणवतां धातूनामेत्व