________________
[ ६४ ]
न विद्यत्ते व्याप्यं यस्य तस्य ॥१६॥
मिमीमादामित्स्वरस्य ।४।१।२०। मिमीमादासंज्ञानां स्वरस्य सि सनि इत् स्यान्न च दिवः । मित्सति । मित्सते । मित्सते । दित्सति । धित्सति ॥२०॥ मि-मी-मा-दामिति–डुमिंग्ट प्रक्षेपणे 'मिग्मीगोऽखल० ।४।२।८ इत्यात्त्वे माद्वारेणैव सिध्यति कि मिग्रहणेनेति चेत्सत्यं 'नामिनोऽनिट' ।४।३।३३। इति सनः कित्वादात्वं न प्राप्नोति । मोति--मीङच, मींगश, मीण इत्येतेषां ग्रहणम्, मेति मांमाङ्कमेङां, ग्रहणम् दासंज्ञया “दांदेडदाग्दों ट्धे” इति गृह्यन्ते । बहुवचनं व्याप्त्यर्थं तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य' 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति नाश्रीयते ॥२०॥
रभलभशकपतपदामिः ।४।१।२१।
एषां स्वरस्य सि सनि इः स्यान्न च दिवः । आरिप्सते । लिप्सते । शिक्षति। पित्सति। पित्सते । सीत्येव--पिपतिषति ॥२१॥ बहुवचनं शकी शक्लुटोरुभयोरपि ग्रहणार्थमन्यथा निरनुबन्धत्वात् देवादिकस्यैव ग्रहणं स्यात् । पिपतिषति–'इवृध०' ।४।४।४७। इति वेट ॥२१॥
राधेर्वधे ।४।१।२२॥
राहिँसार्थस्य सि सिन स्वरस्य इ. स्यान्न च द्विः । प्रतिराद्धमिच्छति । आपूर्वो राध् अराधनार्थे वर्तते ॥२२॥ राधंच वृद्धौ प्रतिराद्ध मिच्छति । आपूर्वो राध आराधनार्थे वर्तते ।।२२।।