________________
[ ७९४ ]
प्राकृतव्याकरणम्
स्पृशेश्छिप्पः । ८ । ४ । २५७ | स्पृशतेः कर्म्मभावे छिप्पादेशो वा भवति क्यलुक् च ॥ छिप्पर । छिविज्जइ ॥ २५७ ॥ क्तेनाप्पुणादयः । ८ । ४ । २५८ |
अप्फुणादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने तेन सह वा निपात्यन्ते ॥ अप्फुणो । आक्रान्तः ॥ उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् || वोलीणो । अतिक्रान्तः ॥ बोसट्टो । विकसितः ॥ निसुट्टो । निपातितः ॥ लुग्गो । रुग्णः ॥ ल्हिक्को । नष्टः । पम्हुट्ठो । प्रसृष्टः प्रमुषितो वा ॥ विदत्तं अर्जितम् || छित्तं । स्पृष्ठम् ॥ निमिअं । स्थापितम् ॥ चक्खिअं | आस्वादितम् ॥ लुंअं | लूनम् ॥ जढं । त्यक्तम् ॥ ज्झोसिअं । क्षिप्तम् ॥ निच्छूढं । उद्वृत्तम् ॥ पल्हत्थं पलोहं च पर्यस्तम् ॥ हीसमणं । हेषितम् । इत्यादि ॥ २५८||
धातवोर्थान्तरेपि । ८ । ४ । २५९ ॥
उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते ॥ बलिः प्राणने पठितः खादनेपि वर्तते । बलइ । खादति प्राणनं करोति वा ॥ एवं कलिः संख्याने संज्ञानेपि । कलइ । जानाति संख्यानं करोति वा ॥ रिगिर्गतौ प्रवेशेपि ।। रिगइ । प्रविशति गच्छति वा ॥ कांक्षतेर्वम्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः । इच्छति खादति वा ॥ फकतेस्थक आदेशः । थक्कइ । नीचां गतिं करोति विलम्बयति वा । विलप्युपालम्भ्योर्झङ्ग आदेशः । झखइ | विलपति उपालभते भाषते वा ।। एवं पड़िवाखे। प्रतीक्षते रक्षति वा ॥ केचित् कैश्चिदुपसर्गैर्नित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति ॥ अणुहरइ | सह