SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ स्वोपनवृत्तिसहितम् [७९३ ] - अर्जेविढप्पः । ८।४ । २५१ । अन्त्यस्येति निवृत्तम् । अर्जेविढप्प इत्यादेशो वा भवति तत्सन्नियोगे कयस्य च लुक् ॥ विढप्पइ । पक्षे । विढविज्जइ । अज्जिज्जइ ॥ २५१ ।। ज्ञो णव्व-णज्जौ । ८।४ । २५२ । जानातेः कर्मभावे णव्व णज्ज इत्यादेशौ वा भवतः तत्सन्नियोगे क्यस्य च लुक् ॥ णव्वइ णज्जइ । पक्षे। जाणिज्जइ । मुणिज्जइ ।। न ज्ञोणः' (८-२-४२) इति णादेशे तु । णाइज्जइ ॥ नपूर्वकस्य । अणाइज्जइ ॥२५२॥ व्याहगेाहिप्पः । ८।४ । २५३ । व्याहरतेः कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वाहिप्पइ। वाहरिज्जइ ॥ २५३ ॥ - आरमेराढप्पः । ८ । ४ । २५४ । आपूर्वस्य रमेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ आढप्पइ । पक्षे। आढवीअइ । ॥ २५४॥ स्निह-सिचोः सिप्पः । ८।४।२५५। अनयोः कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ॥ सिप्पइ । स्निह्यते । सिच्यते वा ॥ २५५ ॥ अहेर्धेप्पः । ८।४ । २५६ । ... ग्रहः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिज्जइ । २५६ ॥ १००
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy