________________
(७९२] प्राकृतव्याकरणम् नियोगे क्यस्य च लुक् ॥ उज्झइ । डहिज्झइ । भविष्यति । डन्झिहिह । डहिहिइ ॥ २४६ ॥
बन्धो न्धः । ८ । ४ । २४७ । बन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥वज्झइ। बन्धिज्जइ । भविष्यति । बज्झिहिह । बन्धिहिइ ॥ २४७ ॥
समनूपादुधेः। ८।४।२४८ । समनूपेभ्यः परस्य रुधेरन्त्यस्य कर्मभावे ज्झो वा भवति, तत्सन्नियोगे क्यस्य च लुक् ॥ संरुज्जइ । अणुर ज्झइ । उवरुज्झइ । पक्षे । संरुन्धिज्जइ । अणुरुन्धिजइ । उवरुन्धिज्जइ । भविष्यति । संरुज्झिहिइ । संरुन्धिहिइ। इत्यादि ॥२४८॥
गमादीनों दित्वम् । ८ । ४ । २४९ ।
गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्सनियोगे क्यस्य च लुक् ।। गम् ।गम्मइ । गमिजह ॥ हस्। हस्सइ । हसिज्जइ ॥ भण् । भण्णइ । भणिजह । छुप् । छुप्पइ । छुविजइ ॥ 'रुद-नमोर्व' (८-४-२२६ ) इति कृतवकारादेशो रुदिरत्र पठ्यते । रुव । रुव्वइ । विजइ । लभ् । लब्भह । लहिज्जइ ॥ कथ् । कत्थइ। कहिज्जइ ।। भुज् ॥ भुज्जइ ।। भुजिजइ ।। भविष्यति । गम्मिहिइ । गमिहिए। इत्यादि ॥ २४९॥
हृ-कृ-त-जामीरः। ८।४ । २५०।। एषामन्त्यस्य ईर इत्यादेशो वा भवति तत्सन्नियोगे च क्यलुक् ॥ हीरइ । हरिजह । कीरइ करिज्जइ । तीरइ. तरिबह । जीरइ जरिजइ ॥ २५० ॥