________________
स्वोपज्ञवृत्तिसहितम् [७९५] शीभवति ॥ नीहरइ । पुरीपोत्सर्ग करोति ॥ विहरइ । क्रीडति ॥ आहरइ । खादति ॥ पडिहरइ । पुनः पूरयति । परिहरइ । त्यजति । उवहरह । पूजयति ।। वाहरइ । आह्वयति ॥ पवसइ। देशान्तरं गच्छति ।। उरुचुपइ। चटति ॥ उल्लुहइ । निःसरति ॥ २५९ ॥
[अथ शौरसेनी] : तो दोनादौ शौरसेन्यामयुक्तस्य ।८।४।२६०।
शौरसेन्य भाषायामनादावपदादौ बर्तमानस्य तका.. रस्य दकारो भवति न चेदसौ वर्णान्तरेण संयुक्तो भवति॥ तदो पूरिद-पदिशेन मारुदिना मन्तिदो॥ एतस्मात् । एदाहि । एदाओ । अनादाविति किम् । तथा करेध जधातस्स राइणो अणुकम्पणीआ भोमि ।। अयुक्तस्येति किम् ।
मत्तो । अय्यउत्तो । असंभाविद-सकारं । हला सउन्तले . ॥ २६० ॥ .
. अधः क्वचित् । ८ । ४ । २६१ । - वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति। कचिल्लक्ष्यानुसारेण ॥ महन्दो। निच्चिन्दो । अन्देउर ॥ २६१ ॥
वादेस्तावति । ८ । ४ । २६२ । शौरसेन्या तावच्छब्दे आदेस्तकारस्य दो वा भवति ।। दाव । ताव ॥ २६२ ॥ .
आ आमन्त्र्ये सौ वेनो नः। ८।४।२६३ ।
शौरसेन्यामिनो नकारस्य आमन्ये सौ परे आकारो वा भवति ॥ भो कञ्चुइआ। सुहिआ । पक्षे । भी तव. सि । भो मणस्सि ॥ २६३ ॥