________________
[७५२] हेमशब्दानुशासनस्य वर्तमाना-भविष्यन्त्योश्च ज्ज ज्जा वा ।८।३।१७७। .
वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज्ज ज्जा इत्येतावादेशौ का भवतः । पर्छ यथाप्राप्तम् ॥ वर्तमाना। इसेज्ज । हसेज्जा। पढेज्ज । पढेज्जा । सुणेज्ज । सुणेज्जा ।। पक्षे । पढिहिइ ॥ विध्यादिषु। हसेन्ज । हसिजा। इसतु । हसेद्धा इत्यर्थः । पक्षे । हसउ ।। एवं मर्वत्र । यथा तृतीयत्रये । अइवाएज्जा । अइवाया. वेज्जा ।न समणुजाणामि। नसमणुजाणेज्जा वा ।। अन्ये त्वन्यासामपीच्छन्ति । होज । भवति । भवेत । भवतु । अभवत्। अभूत् । बभूव । भूयात् । मक्तिा । भविष्यति। अभविष्यद्वेत्यर्थः ॥ १७७ ॥
मध्ये च स्वरान्तादा। ८ । ३ । १७८ । स्वरान्ताद्धातोः प्रकृतिप्रत्ययोर्मध्ये चकारात्प्रत्ययानां च स्थाने ज्ज ज्जा इत्येतो वा भवतः वर्तमानाभविष्यन्त्योविध्यादिषु च ॥ वर्तमाना । होज्जइ । होज्जाइ । होज्ज । होज्जा । पक्षे । होइ ॥ एवं होज्जसि । होज्ज । होज्जा। होसि । इत्यादि ॥ भविष्यन्ती। होज्जहिइ । होज्जाहिइ । होज्ज । होज्जा । पक्षे । होहिइ ॥ एवं होज्जहिसि । होज्जा. हिसि ! होज्ज । होज्जा । होहिसि । होज्जहिमि । होज्जाहिमि। होज्जस्सामि । होज्जहामि । होज्जस्सं होजाहोन्जा। इत्यादि । विध्यादिषु । होजउ । होबाउ । होज । होना। मवतु भवेद्वेत्यर्थः । पक्षे । होउ ॥ स्वरान्तादिति किम् । हसेन । हसेज्जा । तुवरेज्ज । तुवरेज्जा ॥ १७८ ।। ...