SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ स्वोपनवृत्तिसहितम् [७५३] क्रियातिपत्तेः । ८ । ३ । १७९ । क्रियातिपत्तेः स्थाने ज्जज्जावादशौ भवतः॥ होज्ज । होना। अभविष्यदित्यर्थः । जइ होज्ज वण्णणिज्जो ॥ ॥१७९॥ न्त-माणौ । ८।३ । १८०। क्रियातिपत्तेः स्थाने न्तमाणो आदेशौ भवतः ॥ हो. न्ती । होमाणो । अभविष्यदित्यर्थः ॥ हरिण ठाणे हरिणङ्क जइ सि हरिणाहिवं निवेसन्तो। न सहन्तो चिअ तो राहुपरिहवं से जिअन्तस्स ॥१८०॥ शत्रानशः । ८।३ । १८१ । शतृआनश इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशी भवतः। शतृ । हसन्तो हसमाणो ॥ आनश् । वेवन्तो वे. बमाणो ॥ १८१ ॥ ईच स्त्रियाम् । ८।३ । १८२ । स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्तमाणौ च भवन्ति ।। हसई । हसन्ती । हसमाणी । वेवइ । वेवन्ती । वेवमाणी ॥ १८२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधा नस्वापेज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य .. तृतीयः पादः॥ ऊवं स्वर्गनिकेतनादपि तले पातालमूलादपि * त्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । तेनास्याः प्रमदास्वभावसुलभैरुचावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः॥१॥ सर्वविदे नमः॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy