________________
स्वोपत्तिसहितम् [७५१ ] गच्छिहिमि।गच्छिस्सामि।गच्छिहामि।गच्छिस्सं।गच्छं। गच्छिमो । गच्छिहिमो। गच्छिस्सामो। गच्छिहामो । गच्छिहिस्सा । गच्छिहित्था । एवं मुमयोरपि ॥ एवं रुदादीनामप्युदाहार्यम् ॥ १७२ ॥ दुसु मु विध्यादिवेकस्मिंस्त्रयाणाम् ।८।३।१७३।
विध्याविष्वर्थेषुत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणां स्थाने यथासंख्यं दु सु मु इत्येते आदेशा भवन्ति ॥ हसउ सा ॥ हससु तुमं। हसामु अहं । पेच्छउ । पेच्छम् । पेच्छामु ॥ दकारोचारणं भाषान्तरार्थम् ।।१७३॥
सोर्हिवा । ८।३ । १७४ । पूर्वसूत्रविहितस्य सो स्थाने हिरादेशो वा भवति ॥ देहि देसु ॥ १७४ ॥.
अत इज्जस्विज्जहीजे-लुको वा । ८।३।१७५। .. अकारात्परस्य सोः इज्झसुइज्जहि इज्जे इत्येते लुक
च आदेशा वा भवन्ति ।। हसेज्जसु । हसेज्जहि । हसेज्जे। हस । पक्षे । हससु ॥ अत इति किम् । होसु । ठाहि ॥ ॥ १७५॥
बहुषु न्तु ह मो। ८।३। १७६ । विध्याविषूत्पनानां बहुष्वर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति। न्तु । हसन्तु । हसन्तु हसेयुर्वा ॥ ह । हसह। हसत । हसेत वा ॥ मो। हसामो । हसाम । हसेम वा॥ एवं तुवरन्तु । . तुबरह । तुवरामो ॥१७६ ॥