________________
[७५०] प्राकृतव्याकरणम्
कृ-दो हैं। ८।३ । १७०। करोतेर्ददातेश्च परो भविप्यति विहितस्य म्यादेशस्य स्थाने हं वा प्रयोक्तव्यः॥ काहं । दाहं। करिष्यामि दास्यामीत्यर्थः ॥ पक्षे । काहिमि । दाहिमि । इत्यादि ।। १७० ॥ श्र-गमि-रुदि-विदि-दृशि-मुचिचचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं बेच्छं दच्छं मोच्छं वोच्छं छेच्छं
भेच्छं भोच्छं । ८।३ । १७१ । श्वादीनां धातूनां भविष्याद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते ॥ सोच्छं। श्रोष्यामि ।। गच्छं । गमिष्यामि ॥ संगच्छं । संगस्ये ॥ रोच्छं । रोदिष्यामि ।। विद ज्ञाने । वेच्छं । वेदिष्यामि ॥ दच्छं द्रक्ष्या मि ॥ मोच्छं । मोक्ष्यामि । वोच्छं । वक्ष्यामि ॥ छेच्छं । छत्स्यामि ॥ भेच्छं । भेत्स्यामि ॥ भोच्छं । भोक्ष्ये ॥१७॥ सोच्छादय इजादिषु हिलुक् च वा । ८।३।१७२ ।
वादीनां स्थाने इजादिषु भविष्यदादेशेषु यथासंख्यं सोच्छादयो भवन्ति । ते एवादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः। हिलुक् च वा भवति ॥ सोच्छिइ । पक्षे। सोच्छि हिइ । एवं सोच्छिन्ति । सोच्छिहिन्ति । सोच्छिसि । सो. छिहिसि । सोच्छित्था । सोच्छिहित्था । सोच्छिह । सो. च्छिहिह । सोच्छिाम । सोच्छिहिमि । सोच्छिस्सामि । सोच्छिहामि । सोच्छिस्सं । सोच्छं। सोच्छिमो । सोच्छिहिमो । सोच्छिस्सामो। सोच्छिहामो। सोच्छिहिस्सा। सोच्छिहित्था । एवं मुमयोरपि ॥ गच्छिइ । गच्छिहिइ । गच्छिन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि। गच्छित्था । गच्छिहित्था।गच्छिह । गच्छिहिह।गच्छिमि ।