________________
.
स्वोपचिसहितम् [७४९) ज्जात्सप्तम्या इर्वा । ८ । ३ । १६५। ससम्यादेशात ज्जात्पर इर्वा प्रयोक्तव्यः ॥ भवेत् । होज्जङ् । होज्ज ॥ १६५ ॥
भविष्यति हिरादिः । ८१३ । १६६ । भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिहिः प्रयोक्तब्य होहिह । भविष्यति भविता वेत्यर्थः ॥ एवं हो हिन्ति । होहिसि । होहित्था । हसिहिह । काहिइ ॥१६६॥ मि-मो-मु-मे स्सा हा न वा । ८ ।३ । ९६७।
भविष्यत्यर्थे मिमोमुमेषु तृतीयत्रिकादेशेषु परेषु तेषा. मेवादी स्सा हा इत्येतो वा प्रयोक्तव्यो । हेरपवादौ ॥ पक्षे हिरपि । होस्सामि होहामि । होस्सामो होहामो । होस्सा. मु होहामु । होस्साम होहाम ॥ पक्षे । होहिमि । होहिमो। होहिमु । होहिम ॥ क्वचित्तु हा न भवति । हसिस्सामो। हसिहिमो ॥१६७॥ मो-मु-मानां हिस्सा हित्था । ८।३।१६८ ।
भावो परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हिस्सा इत्येतोया प्रयोक्तव्यो। होहिस्सा। होहित्था । हसि. हिस्सा । पक्षे । होहिमो । होस्सामो। होहामो । इत्यादि । ॥१६८ ॥
मेस्सं । ८] ३ । १६९। धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्तं वा प्रयोक्तव्यः ।। होस् । इसिस्सं । कित्ताइस्सं। पक्षे । होहिमि । झस्सामि । होहामि । कत्तइहिति ।। १६९ ॥