________________
[७४८] प्राकृतव्याकरणम् पढीअइ । पढिज्जइ । होईअइ । होइज्जइ ॥ बहुलाधिकारात् कचित् क्योपि विकल्पेन भवति । मए नवेज्ज मए नविज्जेज्ज । तेण लहेज्ज । तेण लहिज्जेज्ज। तेण अ. च्छेज्ज । तेण अच्छिज्जेज्ज । तेण अच्छीअइ ॥ १६० ।
शि-वचे स-डुच्चं ।। ८ । ३ । १६१ । ।
शेवचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस डुच्च इत्यादेशौ भवतः। ईअइज्जापवादः॥ दीसइ वुच्चइ ।।
सौ ही हीअ भूतार्थस्य । ८ । ३ । १६२।
भूतेर्थे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही हीअ इत्यादेशा भवन्ति ।। उत्तरत्र व्यञ्जनादीअविधानात् स्वरान्तादेवायं विधिः । कासी। काही । काही। अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठासी । ठाही । ठाही ॥ आर्षे । देविन्दो इणमब्बवी इत्यादी सिद्धावस्थाश्रवणात् घस्त्यन्याः प्रयोगः ॥ १६२॥
व्यञ्जनादीअः। ८।३ । १६३ । । व्यञ्जनाद्धातोः परस्य भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति॥ हुवीअ । अभूत् । अभवत् । बभूवेत्यर्थः।। एवं अच्छी। आसिष्ट। आस्त । आसांचक्रे वा ॥ गेण्ही । अग्रहीत् । अगृण्हात् । जग्राह वा ॥ १६३ ॥
तेनास्तेरास्यहेसी । ८१३ । १६४।. अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह, आसि अहेसि इत्यादेशो भवतः ॥ आसे सो तुमं अहं वा । जे आसि । य आसन्नित्यर्थः । एवं अहसि ॥ १६४॥