________________
.. स्वोपज्ञपत्तिसहितम् [७४७]
ते। ८।३ । १५६ । . ते परतोत इत्त्वं भवति॥ हसि। पढि । नविअं। हासिकं । पाढिअं ॥ गयं नयमित्यादि तु सिद्धावस्थापेक्षणात् ।। अत इत्येव । झायं । लु । हूअं ॥ १५६ ॥ एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु । ८।३ । १५७.। . क्त्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारचकारादिकारश्च भवति ॥ क्त्वा । हसेऊण । हसिऊण ॥ तुम् । हसेउं । हसिउं । तव्य । हसेअव्वं । हसिअव्वं ॥ भविष्यत । हसेहिइ हसिहिह ॥ अत इत्येव । काऊण ॥१५७ ॥ वर्तमाना-पञ्चमी-शतषु वा । ८ । ३ । १५८ ।
वर्तमानापश्चमीशतृषु परत अकारस्य स्थाने एकारो वा भवति । वर्तमाना । हसेइ हसइ । हसेम हाँसम। हसेमु हसिमु ॥ पञ्चमी । हसेउ हसउ । सुणेउ सुणउ ।। शतृ । हसेन्तो हसन्तो॥ कचिन्न भवति । जयइ ॥ कचिदात्वमा पि । सुणाउ ॥ १५८ ॥
ज्जा-ज्जे । ८।३ । १५९ । जाज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । इसेज्ज॥ अत इत्येव । होज्जा। होज्ज ॥१५९॥
ईअ-इज्जौ क्यस्य । ८।३ । १६० । चिजिप्रभृतीनां भावकर्मविधि वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्प्राप्तस्य क्यस्य स्थाने ईअ इज्ज इत्येतावादेशौ भवतः। इसीअइ। हसिज्जह । हसीअन्तो। हसिज्जन्तो। हसीअमाणो। हसिज्जमाणों।