________________
[७४६] प्राकृतव्याकरणम् हसाविअं॥ खामिअं । खमावि ॥ भावकर्मणोः। का.. रीअइ । करावीअइ । कारिजइ । कराविजह । हासीअइ । हसावीअइ । हासिज्जइ । हसाविजह ॥ १५२ ॥
अदेल्लुक्यादेरत आः । ८ । ३ । १५३ । ... णेरदेल्लोपेषु कृतेषु आदेरकारस्थ आ भवति ॥ अति । पाडइ । मारइ । एति । कारेइ । खामेइ । लुकि । कारि। खामि। कारीअइ । खामीअइ । कारिजई । खामिबह॥ अदेल्लुकीति किम् । कराविअं। करावीअइ । कराविजई ।। आदेरिति किम् । संगामेइ । इह व्यवहितस्य मा भूत् ॥ कारिअं । इहान्त्यस्य मा भूत् । अत इति किम् । दूसेह ।। केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति । कारावेइ । हासाविओ जणो सामलीए ॥ १५३ ॥
मौ वा । ८।३ । १५४ । अत आइति वर्तते । अदन्ताद्धातोमौं परे अत आ. त्वं वा भवति ॥ हसामि । हसमि ॥जाणामि ॥ जाणमि। लिहामि लिहमि ॥ अत इत्येव । होमि ॥ १५४ ॥
इच मो-मु-मे वा । ८।३ । १५५। अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्थं च वा भवतः ॥ भणिमो भणामो। भणिमु भणामु । भणिम भणाम । पक्षे । भणमो । भणमु । भणम ।। 'वर्तमाना-पञ्चमी-शतृषु वा' (८-३-१५८) इत्येत्वे तु भणेमो । भणेमु । भणेम ॥ अत इत्येव । ठामो । होमो॥