________________
[७४४] प्राकृतव्याकरणम् - तृतीयस्य मो-मु-माः । ८।३ । १४४। .
त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य स. म्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ॥ हसामो। हसामु । हसाम । तुवरामो । तुवरामु । तुवराम ।। १४४ ॥ . ..
अत एवच से । ८।३। १४५ । त्यादेः स्थाने यो एच से इत्येतावादेशावुक्ती सावकारान्तादेव भवतो नान्यस्मात् ॥ हसए । हससे । तुवरए । तुवरसे ॥ करए । करसे ॥ अत इति किम् । ठाइ । ठासि ॥ वसुआइ । वसुआसि ॥ होइ । होसि । एवकारोकारान्ताद् एच् से एव भवत इति विपरीतावधारणनिषेधार्थः। तेनाs कारान्ताद् इच् सि इत्येतावपि सिद्धौ ॥ हसइ ॥ वेवइ । वेवसि ॥१४५ ॥
सिनास्तेः सिः। ८।३।१४६ । . सिना द्वितीयत्रिकादेशेन सह अस्ते सिरादेशो भवति ॥ निठुरोज सि ॥ सिनेति किम् । सेआदेशे सति अत्थि तुमं ॥ १४६ ॥ मि-मो-मैम्हि-म्हो-म्हा वा । ८।३।१४७ ।
अस्तेर्धातोः स्थाने मि मोम इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति । एस म्हि । एषोस्मीत्यर्थः ॥ गय म्हो । गय म्ह । मुकारस्याग्रहणादप्रयोग एव तस्येत्यवसीयते । पले अस्थि अहं । अत्थि असे ॥ अस्थि अम्हो ॥ ननु च सिद्धावस्थायां 'पक्ष्म-म-म-स्म-म्हां म्हः' (८-२-७४) इत्यनेन म्हादेशे म्हो इति सिध्यति ।