________________
स्वोपज्ञवृत्तिसहितम् [७४३] त्रयस्य सम्बन्धिन आद्यवचनस्य स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे ॥१४०॥
तृतीयस्य मिः । ८ । ३ । १४१ । त्यादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति॥ हसामि। वेवामि ॥ बहुलाधिकाराद् मिवेः स्थानीयस्थ मेरिकारलो. पश्च ॥ बहु-जाणय रूसिउं सकं । शक्नोमीत्यर्थः । न मरं। न भ्रिये इत्यर्थः ॥ १४१॥ . बहुष्वाद्यस्य न्ति न्तेि इरे । ८ । ३ । १४२ ।
त्यादीनां परस्मैपदानामात्मनेपदानामात्रयसम्बन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने न्ति न्ते इरे इत्या. देशा भवन्ति ॥ हसन्ति । वेवन्ति । हसिजन्ति । रमिजन्तिा गज्जन्ते खे मेहा ॥ बीहन्ते रक्खमाणं च॥उप्पजन्ते कइ-हिअय-सायरे कव्व-रयणाइं ॥ दोणि वि न पहुप्पिरे बाहू । न प्रभवत इत्यर्थः ॥ विच्छुहिरे। विक्षुभ्यन्ती. त्यर्थः ॥ कचिद् रे एकत्वेऽपि । सूसहरे गाम-चिक्खल्लो । शुष्यतीत्यर्थः ॥१४२॥ .' मध्यमस्येत्था हचौ । ८।३ । १४३ ।
त्यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच् इत्येतावादेशौ भवतः॥ हसित्था । हसह । वेवित्था । वेवह ॥ बाहुलकादित्थान्य. त्रापि । यद्यत्त रोचते । जे जते रोहत्था । हच् इति चकार 'इह-हचोर्हस्य' (८-४-२६८) इत्यत्र विशेषणार्थः ॥ ॥ १४३ ॥