________________
[७४२]
प्राकृतव्याकरणम् पञ्चम्यास्तृतीया च । ८।३। १३६ ।
पञ्चम्याः स्थाने कचित् तृतीयासप्तम्यौ भवतः ।। चोरेण बीहइ । चोराद्विमेतीत्यर्थः । अन्तेउरे रमिउमाग ओ राया। अन्तःपुराद् रन्त्वागत इत्यर्थ ॥ १३६ ॥ .. सप्तम्या द्वितीया । ८।३ । १३७। ... - सप्तम्याः स्थाने कचिद् द्वितीया भवति ॥ विज्जुज्जोयं भरइ रत्तिं ॥ आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं। तस्मिन् काले। तस्मिन् समये इत्यर्थः । प्रथमाया अपि द्वितीया दृश्यते । चउवीसं पि जिणवरा । चतुर्विशः तिरपि जिनवरा इत्यर्थः ॥ १३७ ॥ . क्यडोर्यलुक । ८ । ३ । १३८ । . क्यङन्तस्य क्यअन्तस्य वा सम्बन्धिनो यस्य लुग् भात ।। गरुआइ । गरुआअइ। अगुरुगुरुर्भवति गुरुरिवा. चरति वेत्यर्थः ॥ क्यङ्ग । दमदमाइ । दमदमाअइ ॥ लो. हिआइ । लोहिआअइ ॥ १३८ ॥ त्यादीनामाद्यत्रयस्याद्यस्येचेचौ । ८ । ३ । १३९ ।
त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संवन्धिनः प्रथमत्रयस्य यदायं वचनं तस्य स्थाने इच् एच इत्येतावादेशौ भवतः ॥ हसइ । हसए । वेवइ । वेवए । चकारौ 'इचेचः' (८-४-३१८ ) इत्यत्र विशेषणार्थौ ।। ॥ १३९ ॥ -.-दितीयस्य सि से । ८।३ । १४०।
त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य