SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् [ ७४१] चतुर्थ्याः षष्ठी । ८ । ३ । १३१ । चतुर्थ्याः स्थाने षष्ठो भवति ।। मुणिस्स । मुणीण देइ || नमो देवरस | देवाण ॥ १३१ ॥ तादर्थ्येव । ८ । ३ । १३२ । तादविहितस्य चतुर्थ्येकवचनस्य स्थाने षष्ठी वा भवति ॥ देवस्स देवाय । देवार्थमित्यर्थः ॥ ङेरिति किम् । देवा ॥ १३२ ॥ वधाड्डाइश्च वा | ८ | ३ | १३३ । वधशब्दात्परस्य तादर्ध्यङेडिंदू आइः षष्ठी च वा भवति || वहाइ वहस्स वहाय । वधार्थमित्यर्थः ॥ १३३ ॥ | क्वचिद द्वितीयादेः | ८ | ३ | १३४ । I द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमाधरस्स वन्दे । तिस्सा मुहस्स भरिमो | अत्र द्वितीयायाः षष्ठी ॥ धणस्स लद्धो । धनेन लब्ध इत्यर्थः । चिरस्स मुक्का । चिरेण मुक्तेत्यर्थः तेसिमेअमणाइण्णं तैरेतदनाचरितम् । अत्र तृतीयायाः । चोरस्स बीहइ । चोराबिभेतीत्यर्थः । इअराई जाण लहुअख्खराई पायन्ति मिल्ल - सहि. . आण । पादान्तेन सहितेभ्य इतराणीति । अत्र पञ्चम्याः ॥ पिट्ठीए केस - भारो। अत्र सप्तम्याः ॥ १३४ ॥ द्वितीया - तृतीययोः सप्तमी ||३|१३५ | द्वितीयतृतीययोः स्थाने क्वचित् सप्तमी भवति ॥ गामे वसामि । नयरे न जामि । अत्र द्वितीयायाः ॥ मइ वेविरीए मलिआई | तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः ।। १३५ ।।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy