________________
[१४] हैमशब्दानुशासनस्य हिं। बच्लेसुन्तो । वच्छे सु ॥ भिसभ्यस्सुपीत्येव । गिरि तर्क पेच्छ ॥ १६ ॥
- चतुरो वा । ८।३। १७ ।
चतुर उदन्तस्य भिसभ्यस्सुप्सु परेषु दीर्थो वा भ. कति ॥ चऊहि । चउहि। चऊओ चउओ। चऊसु । चउसु ॥ १७॥
लुप्ते शसि । ८।३ । १८ । इदुतोः शसि लुप्ते दीर्घो भवति ॥ गिरी। बुद्धी।तरू । घेणू पेच्छ ॥ लुप्त इति किम् । गिरिणो। तरुणो पेच्छ॥ हवत इत्येवः । वच्छे पेच्छ । 'जस्-शस्' (८.३.१२) इत्यादिन शसि दीर्घस्य लक्ष्यांनुरोधार्थो योगः। लुप्त इति तु णवि प्रतिप्रसवार्थशङ्कानिवृत्त्यर्थम् ॥ १८ ॥ __ अक्लीबे सौ । ८ । ३ । १९ ।
इदुतोक्लीबे नपुंसकादन्यत्र सौ दीपो भवतिः॥ गिरी। बुद्धी । तरू । धेणू ।। अक्लीव इति किम् । दहिं । महुं ।। साविति किम् । गिरिं । बुद्धिं । तरूं । घेणुं॥ केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मादेशमपीच्छन्ति । अग्गि। लिहिं । वाउं । विहुं॥ १९॥
पुंसि जसो डउ डआ वा । ८।३ । २० ।
इदुत इतीह पञ्चम्यन्तं संबध्यते ॥ इदुतः परस्य जसः पुंलि अउ अओ इत्यादेशौ डितो वा भवतः ॥ अग्गउ अग्गयो । वायउ वायओ चिट्ठन्ति । पक्षे । अग्गिणो। गाइयो। शेष अवन्तद्भावाद् अग्गी । वाऊ ॥ पुंसीति शिम् । कुद्धीओ। घेणूओ । दहीहं। महूई।जस इति किम्।