________________
स्वोपज्ञवृत्तिसहितम् ___ [७१५] .. अग्गी । अग्गिणो । वाऊ। वाउणो पेच्छइ ॥ इदुत इत्येवों वच्छा ॥ २० ॥
वोतो डवो । ८।३ । २१ । उदन्तात्परस्य जसः पुंसि डित् अवो इत्यादेशी वा भवति ॥ साहवो । पक्षे । साहओ। साहउ । साहू । साहुणो ॥ उत इति किम् । वच्छा ॥ पुंसीत्येव । घेणू । महूइं॥ जस इत्येव । साहू । साहुणो पेच्छ ॥ २१॥ ... जस-शसोर्णो वा । ८ । ३ । २२।।
इदुतः परयोर्जस्-शसोः पुंसि णो इत्यादेशो वा भवः ति ॥ गिरिणो । तरुणो रेहन्ति पेच्छ वा । पक्ष। गिरी। तरू ॥ पुंसीत्येव । दहीहं । महूइं ।। जस्-शसोरिति किम् । गिरि । तरं ॥ इदुत इत्येव । वच्छा। वच्छे॥ जस्-शसो. रिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । एवमु. त्तरसूत्रेऽपि ॥ २२ ॥ . ___ उसि-उसोः पुं-क्लीबेवा । ८।३ । २३ ।।
पुंसि क्लीबे च वर्तमानादिदुतः परयोर्डसिङसोर्णो वा भवति ॥ गिरियो । तरुणो। दहिणो। महुणो आगओ विआरो वा । पक्षे । ङसेः । गिरीओ। गिरीउ । गिरीहिन्तो। तरूओ। तरूउ । तरूहिन्तो। हिलको निषेत्स्येते ।। ङसः। गिरिस्स । तरुस्स ॥ ङसिङसोरिति किम् । गिरिणा । तरुणा कयं ॥ पुंक्लीव इति किम् । बुद्धी । घेणूअ लद्धं समिद्धी वा ॥ इदुत इत्येव । कमलाओ कमलस्स ॥ २३ ॥ .
टोणा । ८।३ । २४ । पुंक्लीवे वर्तमानादिदुतः परस्य टा इत्यस्य णा भवति ।।