________________
स्वोपज्ञवृत्तिसहितम्
[ ७१३] वच्छा || तोदोदुषु । वृक्षेभ्यः । वच्छत्तो । 'हस्वः संयोगे' (८-१-८४) इति ह्रस्वः ॥ वच्छाओ । वच्छाउ ॥ आमि । वच्छाण ॥ ङसिनैव सिद्धे त्तोदोदुग्रहणं स्यसि एल्वाधनार्थम् ॥ १२ ॥
भ्यसि वा । ८ । ३ | १३
भ्यसादेशे परे अतो दीर्घो वा भवति ॥ वच्छाहिन्तो वच्छे हिन्तो । वच्छासुन्तो वच्छे सुन्तो । वच्छाहि वच्छेहि ॥ १३ ॥
टाणशंस्येत् । ८ । ३ | १४ |
टादेशे णे शसि च परे अस्य एकारो भवति ॥ टाण । वच्छेण ॥ णेति किम् । अप्पणा । अप्पणिआ । अपनेइआ ॥ शस् । वच्छे पेच्छ ॥ १४ ॥ 1
भिरभ्यस्सुप | ८ | ३ | १५ |
एषु अत एर्भवति ॥ भिस् । वच्छेहि । वच्छेहि । बच्छेहिं ॥ भ्यस् । वच्छेहि । वच्छेहिन्तो । वच्छे सुन्तो ॥ सुपू । बच्छेसु ॥ १५ ॥
इदुतो दीर्घः | ८ | ३ | १६ |
इकारस्य उकारस्य च भिसभ्यस्सुप्सु परेषु दीर्घो भवति ॥ भिस् । गिरिहिं । बुद्धीहिं । दहीहिं । तहिं । हि । महूहिं कथं ॥ भ्यस् । गिरीओ । बुद्धीओ । दहीओ । तरुओ । घेणूओ । महूओ आगओ ॥ एवं गिरीहिन्तो । गिरीसुन्तो आगओ इत्याद्यपि ॥ सुप् । गिरीसु । बुद्धीसु दहीसु । तरुसु । घेणूसु । महूसु ठिअं ॥ कचिन्न भवति । विअ - भूमिसु दाणजलोल्लिआई । इदुत इति किम् । वच्छे