________________
[७१२ ] प्राकृतव्याकरणम् नुस्वारश्च हिर्भवति ।। वच्छेहि । वच्छेहिँ । वच्छेहिं कया छाही ॥७॥ ङसेस् त्तो-दो-दु-हि-हिन्तो-लुकः। ८।३ । ८।
अतः परस्य उसेः त्तो दो दु हि हिन्तो लुक् इत्येते षडादेशा भवन्ति ॥ वच्छत्तो। वच्छाओ। वच्छाउ । वच्छाहि । वच्छाहिन्तो । वच्छा। दकारकरणं भाषान्तरार्थम् ॥ ८॥ भ्यससू तो दो दु हि हिन्तो सुन्तो ।।३।९।।
अतः परस्य भ्यसः स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशा भवन्ति ॥ वृक्षेभ्यः। वच्छत्तो। वच्छाओ। बच्छाउ। वच्छाहि। वच्छेहि । वच्छाहिन्तो। वच्छेहिन्तो। बच्छासुन्तो । वच्छेसुन्तो॥९॥
उसः स्सः । ८ । ३ । १० । अतः परस्य उसः संयुक्तः सो भवति ॥ पियस्स। पेम्मस्स । उपकुम्भं शैत्यम् । उपकुम्भस्स सीअलत्तणं ॥ ॥१०॥
3 म्मि उः । ८ । ३ । ११ । अतः परस्य अॅर्डित् एकारः संयुक्तो मिश्च भवति ॥ वच्छे । वच्छम्मि ॥ देवम् । देवम्मि । तम् । तम्मि । अत्र 'द्वितीयातृतीययोः सप्तमी' (८-३-१३५ ) इत्यमो ङिः ॥११॥ जसु-शसू-ङसि-तो-दो-दामि दीघः। ८।३ । १२।
एषु अतो दी? भवति ॥ जसि शसि च । बच्छा। उसि । वच्छाओ। बच्छाउ। वच्छाहि । वच्छाहिन्तो।