________________
स्वोपज्ञवृत्तिसहितम् [७०५] हद्धी निवेदे । ८ । २ । १९२ । हद्धी इत्यव्ययमतएव निर्देशात् हाधिकशब्दादेशो वा निदे प्रयोक्तव्यम् ॥ हद्धीहद्धी ।हाधाहधाह ॥१९२॥
वेवे भय-वारण-विषादे। ८ । २ । १९३ । भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ वेवेत्ति भये वेव्वेत्ति वारणे जूरणे अ वेव्वेत्ति । उल्लाविरीइ वि तुहं वेव्वेत्ति मयच्छि किं णेअं॥ किं उल्लावेन्तीए उअ जूरन्तीऍ किं तु भीआए। उब्वाडिरीऍवेवेत्तितीऍ भणिन विम्हरिमो॥१९३॥ वेव च आमन्त्रणे । ८।२ । १९४ ।
वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये ॥ वेव्वे गोले। वेवे मुरन्दले वहसि पाणिशं ॥ १९४ ।। मामि हलाहले सख्या वा । ८ । २ । १९५।
एते सरव्या आमन्त्रणे वाप्रयोक्तव्याः॥ मामि सरि. सक्खराण वि ॥ पणवह माणस्स हला । हले हयासस्स । पक्षे । सहि एरिसि चिअ गई ॥ १९५ ॥
दे संमुखीकरणे च । ८।२ । १९६ । ... संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिअ ताव सुन्दरि ॥ दे आ पसिअ निअत्तसु॥ ॥ १९६॥
हं दान-पृच्छा-निवारणे । ८।२ । १९७ । · हुं इति दानादिषु प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चिअ॥ पृच्छायाम् । हुं साहसु सम्भावं ॥ निवारणे। हुं निल्लज्ज समोसर ॥ १९७ ॥