________________
[७०४] प्राकृतव्याकरणम्
बले निर्धारण-निश्चययोः । ८।२ । १८५। . - बले इति निर्धारणे निश्चये च प्रयोक्तव्यम् ॥ निर्धारणे । बले पुरिसो धणंजओ रवत्तिआणं । निश्चये । बले सीहो । सिंह एवायम् ॥ १८५ ॥ . किरेर हिर किलार्थे वा । ८।२।१८६ ।...
किर इर हिर इत्येते किलार्थ वा प्रयोक्तव्याः ॥ कल्लं किर खरहिअओ। तस्स इर । पिअ-वयंसो हिर । पक्षे । एवं किल तेण सिविणए भणिआ ॥१८६ ॥ __णवर केवले । ८।२।१८७।
केवलार्थे णवर इति प्रयोक्तव्यम् ॥णवर पिआइं चित्र णिब्बडन्ति ।। १८७ ॥
आनन्तर्ये णवरि । ८ । २ । १८८ ।
आनन्तर्ये गवरीति प्रयोक्तव्यम् ॥णवरि असे रहुवइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव सूत्रं कुर्वते तन्मते उभावप्युभयार्थौ ॥ १८८ ॥
अलाहि निवारणे । ८।२ । १८९ । __ अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाइएण लेहेण ॥ १८९ ॥
अण णाई नार्थे । ८ । २ । १९० । अण णाई इत्येतो नोर्थे प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती । णाई करेमि रोसं ॥ १९० ॥
माई मार्थे । ८।२. १९१ । माइं इति मार्थे प्रयोक्तव्यम् ॥ माइं काहीअ रोसं । मा कार्षीद् रोषम् ॥ १९१ ॥