________________
प्राकृतव्याकरणम् ऊत्वे दुर्भग-सुभगे वः । ८ । १ । १९२।।
अनयोरुत्वेगस्य वोभवति ॥ दूहवो। सूहवो ॥ ऊत्व इति किम् । दुहओ । सुहओ ॥ १९२ ।।
खचित-पिशाचयोश्चः स-लौ वा । ८ । १ । १९३ । ___अनयोश्चस्य यथासंख्यं स ल्ल इत्यादेशौ वा भवतः ॥ खसिओ खइओ। पिसल्लो पिसाओ ॥ १९३ ॥
जटिले जो झोवा । ८।१ । १९४ । जटिले जस्य झोवा भवति ।झडिलो जडिलो॥१९४॥
टो डः।८।१ । १९५।। स्वरात्परस्यासंयुक्तानादेष्टस्य डो भवति ॥नडो। भडो। घडो । घडइ ॥ स्वरादित्येव । घंटा ॥ असंयुक्तस्येत्येव । खट्टा । अनादेरित्येव । टक्को । कचिन्न भवति । अटति । अटइ ॥१९५ ॥ .
सटा-शकट-कैटभे ढः । ८ । १ । १९६ । एषु टस्य ढो भवति ॥ सढा । सयढो। केढवो ॥१९६॥
स्फटिके लः। ८।१ । १९७ । स्फटिके टस्य लो भवति ॥ फलिहो ॥ १९७ ॥ .
चपेटा-पाटौ वा । ८।१ । १९८ । चपेटाशब्दे ण्यन्ते च पटिधातौ टस्य लो वा भवति ॥ चविला चविडा । फालेइ फाडेह ॥ १९८ ॥
ठो ढः।८।१ । १९९ । स्वरात्परस्यासंयुक्तस्यानादेष्ठस्य ढो भवति ।। मढो ।