________________
[ ६५५ ]
स्वोपज्ञवृत्तिसहितम्
ख-घ-थ-ध-भाम् । ८ | १ | १८७ ।
1
स्वरात्परेषामसंयुक्तानामनादिभूतानां व घ थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा | मुहं मेहला | लिहइ || घ | मेहो । जहणं । माहो । लाहइ || थ । नाहो । आवसहो । मिहुणं । कहइ ॥ ध । साहू । वाहो बहिरो । बाहइ । इन्द-हणू ॥ भ | सहा । सहावो । नहं । थणहरो | सोहर || स्वरादित्येव । संखो । संघो । कंथा । बंधो । खंभो ॥ असंयुक्तस्येत्येव । अक्खइ । अग्घइ | कथइ | सिद्ध । बन्धइ | लग्भइ || अनादेरित्येव । ग. जन्ते खे मेहा ॥ गच्छइ घणो ॥ प्राय इत्येव । सरिसवखलो | पलय-घणो । अथिरो । जिण धम्मो । पण भओ ॥ ॥ नभं ॥ १८७ ॥
।
1
पृथक धो वा । ८ । १ । १८८ |
पृथक् शब्दे थस्य धो वा भवति ।। पिधं पुधं । पिहं पुहं ॥ १८८ ॥
शृङ्खले खः कः | ८ | १ । १८९ । शृङ्खले खस्य को भवति ॥ सङ्कलं ॥ १८९ ॥
पुन्नाग - भागिन्योगों मः । ८ । १ । १९० । अनयोर्गस्य मो भवति । पुन्नामाई वसन्ते । भामिणी ॥ १९० ॥
छागे लः । ८ । १ । १९१ ।
छागे गस्य लो भवति || छालो । छाली ॥ १९९ ॥