________________
[६५४] प्राकृतव्याकरणम् निहओ। निनओ। वाऊ । कई । अवर्णादित्येव ॥ लोअ. स्स । देअरो । कचिद् भवति । पियइ ॥ १८० ॥ कुब्ज-कर्पर-कीले कः खोपुष्पे । ८ । १ । १८१ ।
एषु कस्य खो भवति पुष्पं चेत् कुब्जाभिधेयं न भवति ॥ खुज्जो । खप्परं । खीलओ॥ अपुप्प इति किम् । बंधे कुजय-पसूणं । आर्षेऽन्यत्रापि । कासितं । खासि। कसितं । खसि ।। १८१॥ मरकत-मदकले गः कन्दुके वादेः ।८।१।१८२।
अनयोः कस्य गो भवति, कन्दुके त्वाद्यस्य कस्य । मरगयं । मयगलो । गेन्दुअं ॥ १४२ ॥ . किराते चः। ८।१ । १८३। - किराते कस्य चो भवति ॥ चिलाओ। पुलिन्द एवायं विधिः । कामरूपिणि तु नेष्यते । नमिमो हर-किरायं । ॥१८३॥
शीकरे भ-हौ वा । ८ । १ । १८४ । शीकरे कस्य भहो वा भवतः । सीभरोसीहरो। पले। सीअरो॥ १८४॥
चन्द्रिकायां मः । ८।१ । १८५ । चन्द्रिकाशब्दे कस्य मो भवति ॥ चन्दिमा ॥ १८५ ॥ निकष-स्फटिक-चिकुरे हः । ८।१ । १८६ ।
एषु कस्य हो भवति ॥ निहसो। फलिहो । चिहुरो। चिहुरशब्दः संस्कृतेपि इति दुर्गः ॥ १८६ ॥ ..