SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिसहितम् [ ६५३ ] बहुतरो बहुअरो । सुहदो | सुहओ । इत्यादि ॥ क्वचिदादेरपि । स पुनः । स उण । स च। सो अ । चिह्न । इन्धं ॥ कचिचस्य जः । पिशाची । पिसाजी ॥ एकत्वम् । एगतं ॥ एकः । एगो ॥ अमुकः । अमुगो ॥ असुकः । असुगो ।। श्रावकः । सावगो | आकारः । आगारो ॥ तीर्थकरः तित्थगरो || आकर्षः । आगरिसो || लोगस्सुज्जोअगरा । इत्यादिषु तु 'व्यत्ययश्च' ( ८-४-४४७) इत्येव कस्य गत्वम् ॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं । आउण्टणं । अत्र चस्य त्वम् ॥ १७७ ॥ यमुना-चामुण्डा कामुकातिमुक्तके मोऽनुनासिकश्च । ८ । १ । १७८ । एषु मस्य लुग् भवति लुकि च सति मस्य स्थाने अनुनासिको भवति । जँउणां । चाँउण्डा । काँउओ । अणि उतयं ॥ कचिन्न भवति । अइमुन्तयं । अइमुत्तयं ॥ १७८ ॥ नावर्णात्पः | ८ | १ | १७९ । अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सबहो । सावो || अनादेरित्येव । परउट्ठो ॥ १७९ ॥ अवर्णो यश्रुतिः । ८ । १ । १८० । का गचजेत्यादिना लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्न तर यकारश्रुतिर्भवति ॥ तित्थयरो । सयढं । नयरं । मयो । कग्गहो । काय मणी । रययं । पयावई । रसायलं । पायालं । मयणो । गया । नयणं । दयालू । लायण्णं ॥ अवर्ण इति किम् । सउणो । पउणो । पउरं । राईवं ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy