________________
__ स्वोपत्रवृत्तिसहितम् [६५७) सढो । कमढो । कुढारो । पढइ ॥ स्वरादित्येव । वैकुंठो ॥ असंयुक्तस्येत्येव । चिट्ठइ ॥ अनादेरित्येव । हिअए ठाइ ॥ १९९ ॥
अकोठे लः । ८।१ । २०० । अङ्कोठे ठस्य द्विरुक्तो लो भवति ॥ अङ्कोल्लतेल-तुप्पं ॥ २० ॥ पिठरे हो वा रश्च डः । ८।१ । २०१।।
पिठरे ठस्य हो वा भवति, तत्सन्नियोगे च रस्य डो भवति ॥ पिहडो पिढरो ॥ २०१॥
डोलः । ८ । १ । २०२ । स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ॥ वडवामुखम् । वलयामुहं ॥ गरुलो। तलावं । कीलह ॥ स्वरादित्येव । मोंडं । कोंडं॥ असंयुक्तस्येत्येव । खग्गो॥ अनादेरित्येव । रमइ डिम्भो।। प्रायोग्रहगात् क्वचिद् विकल्पः । वलिसं वडिसं । दालिमं दाडिमं। गुलो गुडो । णाली णाडी । णलं णडं । आमेलो आवेडो ॥ क्वचिन्न भवत्येव । निबिडं । गउडो। पीडिनीडं । उडू। तडी ।। ॥ २०२॥
वेणौ णो वा । ८।१ । २०३ । वेणौ णस्थ लो वा भवति ॥ वेलू वेणू ॥ २०३ ॥
तुच्छे तश्च-छौ वा । ८ । १ । २०४ ।. __ तुच्छशब्दे तस्य च छ इत्यादेशौ वा भवतः ॥ चुच्छं छच्छं । तुच्छं ॥२०४॥