________________
स्वोपज्ञवृत्तिसहितम् [६३७] . आदेः । ८।१ । ३९ । ..
आदेरित्यधिकारः कगचज'[८-१-१७७] इत्यादि सूत्रात् प्रागविशेषे वेदितव्यः ॥ ३९ ॥
त्यदायव्ययात् तत्स्वरस्य लुक ।८।१।४॥
त्यादादेरव्ययाच परस्य तयोरेव त्यदायव्यययोरादेः स्वरस्य बहुलं लग् भवति ॥ अम्हेत्थ अम्हे एत्थ । जइमा जइ इमा । जइहं जइ अहं ॥ ४० ॥
पदादपेर्वा । ८ । १ । ४२ । पदात् परस्य अपेरव्ययस्यादे ग् वा भवति ॥ तं पि तमवि । किं पि किमवि । केण वि केणावि । कहं पि कहमवि ।। ४१॥
इतेः स्वरात् तश्च दिः । ८ । १ । ४२ ।
पदात् परस्य इतेरादे ग् भवति स्वरात् परश्च तकारो द्विर्भवति ॥ किं ति । जे ति । दिट्ट ति। न जुत्तं ति ॥ स्वरात् । तह त्ति। झति । पिओ ति । पुरिसो ति ।। पदादित्येव । इअ विज्ञ गुहा निलयाए ॥ ४२ ॥ लुप्त-यस्व-श-ष-सां श-ष-सां दीर्घः । ८।१।४३।
प्राकृतलक्षणवशाल्लुप्ता याद्या . उपर्यधो वा येषां शकारषकारसकाराणां तेषामादेः स्वरस्य दीपों भवति ।। शस्य यलोपे। पश्यति । पासइ॥ कश्यपः। कासवो।। आवश्यकं । आवासयं ॥ रलोपे। विश्राम्यति। वीसमा॥ विश्रामः । वीसामो ॥ मिश्रम् । मीसं ॥ संस्पर्शः।