________________
[६]
- प्राकृत व्याकरणम्
संफासो ॥ वलोपे । अश्वः आसो ॥ विश्वसिति । वीससइ ॥ विश्वासः । वीसासो ॥ शलोपे । दुइशासनः । दूसासणो ॥ मनःशिला । मणाशिला ॥ षस्य यलोपे । शिष्यः । सीसो ॥ पुष्यः । पूसो ॥ मनुष्यः । मणूसो ॥ रलोपे । कर्षकः । कासओ । वर्षाः । वासा ॥ वर्षः । वासो ॥ वलोपे । विष्वाणः । वीसाणो ॥ विष्वक् । वीसुं ॥ षलोपे । निष्पक्तः । नीसत्तो ॥ सस्य यलोपे । सस्यम् । सासं ॥ कस्यचित् । कासइ ॥ रलोपे । उस्रः ऊसो ॥ विस्रम्भः वीसम्भो ॥ वलोपे । विकस्वरः । विकासरो ॥ निःस्वः । नीसो ॥ सलोपे । निस्सहः । नीसहो । 'न दीर्घानुस्वारात' (८-२-९२) इति प्रतिषेधात् सर्वत्र 'अनादौ शेषादेशयोर्द्वित्वम् ' . (८-२-८९ ) इति द्वित्वाभावः ॥ ४३ ॥
अतः समृद्ध्यादौ वा । ८ । १ । ४४ ।
समृद्धि इत्येवमादिषु शब्देष्वादेरकारस्य दीर्घा या भवति ॥ सामिद्धी समिद्धी । पासिद्धी पसिद्धी । पापहं पयडं । पाडिवआ पंडिवआ । पासुत्तो पत्तो । पारिसिद्धी पडिसिद्धी । सारिच्छो सरिच्छो । माणंसी मणसी । माणसिणी मणसिणी । आहिआई अहिआई । पारोहो परोहो । पावासू पवासू । पाडिप्फद्धी पडिप्फद्धी ॥ समृद्धि । प्रसिद्धि | प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सदृक्ष । मनस्विन् मनस्विनी । अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्द्धिन् । आकृतिगणोऽयम् । तेन । अस्पर्शः । आसो ॥ परकीयम् । पारकेरं । पारक्कं । प्रवचनम् । पाचवणं ॥ चतुरन्तम् । चाउरन्तम् । इत्याद्यपि भवति ।।
॥ ४४ ॥